कार्यशालायाः आयोजनाय अपेक्षितं विवरणम्

कार्यशालायाः नाम – ‘सरलमानकसंस्कृतम् – एकदिवसीया कार्यशाला’ (Workshop on Simple Standard Samskrit)
कदा - मार्च-अप्रैलमासस्य कस्मिंश्चित् दिने । (कस्मिंश्चित् रविवासरे अथवा विरामदिनेषु ।)
कुत्र - जनपदकेन्द्रेषु राज्यकेन्द्रे च । महानगरेषु तु बहुषु स्थानेषु भवितुम् अर्हति ।
अपेक्षिताः - संस्कृतस्य शिक्षकाः, प्राध्यापकाः, विद्वांसः, लेखकाः, कवयः, अन्ये संस्कृतज्ञाः च । एकस्यां कार्यशालायां ३० - ५० प्रतिभागिनः भवेयुः ।
अवधिः - प्रातः १० वादनतः सायं ४:३० पर्यन्तम् (एकैकघण्टायाः ४ सत्राणि)
आयोजिका - भवदीया संस्था / अन्या कापि संस्था
सहयोगिनी - ONGC – CSR –SPF परियोजना
सत्रविषयाः -
१. किमर्थं सरलमानकसंस्कृतम् (चर्चारूपेण) – प्रथमसत्रम्
२. सरलमानकसंस्कृतस्य स्वरूपम् (चर्चारूपेण) – द्वितीयसत्रम्
३. सरलमानकसंस्कृतेन प्रौढसंस्कृतस्य परिवर्तनस्य अभ्यासः (गणशः) – तृतीयसत्रम्
४. सरलमानकसंस्कृतस्य क्रियान्वयनम् (चर्चारूपेण) - चतुर्थसत्रम्
अन्यानि विवरणानि –
१. उद्घाटनम् इति औपचारिकतायाम् अधिकः समयः न व्यर्थीकरणीयः । चर्चार्थम् एव पूर्णः समयः कल्पनीयः ।
२. समापनम् इति पृथक् कार्यक्रमः मास्तु । विद्यमानेषु ज्येष्ठः प्रमुखः वा उपसंहारं कुर्यात् ।
३. सामग्रीमुद्रण-सत्रस्वीकर्तृमार्गव्यय-चाय-भोजनादीनां व्ययनिमित्तं १०,०००-१५,००० रूप्यकाणि संवर्धनप्रतिष्ठानेन दास्यन्ते ।
४. सत्रनिमित्तम् अध्ययनसामग्री जालपुटे उपलब्धा अस्ति ।
५. भागग्रहीतृभ्यः सूचनापत्रस्य प्रारूपं जालपुटे उपलब्धम् अस्ति । तत् यथा अपेक्षितं तथा परिष्कृत्य भवन्तः प्रेषयितुं शक्नुवन्ति ।
६. सरलमानकसंस्कृत-पुस्तकानि देहलीतः प्रेष्यन्ते । (राष्ट्रियसंस्कृतपरिषदः समित्या समर्पितं प्रतिवेदनम्)
७. कार्यशालायां मञ्चस्य पृष्ठतः स्थापनाय फलकस्य प्रारूपं जालपुटे उप्लब्धम् अस्ति ।
८. कार्यक्रमस्य कतिचन उत्तमचित्राणि प्रतिवेदनेन सह प्रेष्यन्ताम् । यथा मञ्चपृष्ठस्थफलकविषयाः चित्रे स्पष्टं दृश्येरन् तादृशं कार्यक्रमचित्रमपि प्रेष्यन्ताम् ।
९. कार्यशालायाः अनन्तरं संवर्धनप्रतिष्ठानं प्रति प्रेषणीयानां प्रारूपाणि जालपुटे उपलब्धानि सन्ति । (यथा प्रतिवेदनम्, आयव्ययविवरणम्, भागग्रहीतृविवरणम् इत्यादीनि)
१०. सत्रस्वीकर्तारः पूर्वभाविरूपेण सम्यक् सज्जताः कुर्युः ।
११. कार्यशालातः पूर्वम् अनन्तरं च सुष्ठु प्रचारः कर्तव्यः ।
१२. कार्यशालायां कस्य अपि दीर्घं भाषणं न भवेत् । चर्चासु सर्वेषां सहभागः भवेत् ।
१३. संयोजकेन प्रत्येकं भागग्रहीतुः सूचितपद्धत्या नामविवरणादीनि संवर्धनप्रतिष्ठानं प्रति प्रेषणीयानि ।

संस्कृतसंवर्धनप्रतिष्ठानम्
‘सरलमानकसंस्कृतम्’
एकदिवसीयाः कार्यशालायाः आवेदनपत्रम्


आयोजकसंस्थायाः नाम
ई-पत्रसङ्केतः (Email)
दूरभाषसङ्ख्या
आयोजकसंस्थायाः पत्रसङ्केतः
आयोजकसंस्थायाः प्रमुखस्य नाम
प्रमुखस्य दूरभाषसङ्ख्या
प्रमुखस्य ई-पत्रसङ्केतः
कार्यशालायाः दिनाङ्कः
कार्यशालायाः स्थानम्
उपवेशनस्य व्यवस्था